वांछित मन्त्र चुनें

क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे । अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥

अंग्रेज़ी लिप्यंतरण

ka īṁ veda sute sacā pibantaṁ kad vayo dadhe | ayaṁ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ ||

पद पाठ

कः । ई॒म् । वे॒द॒ । सु॒ते । सचा॑ । पिब॑न्तम् । कत् । वयः॑ । द॒धे॒ । अ॒यम् । यः । पुरः॑ । वि॒ऽभि॒नत्ति॑ । ओज॑सा । म॒न्दा॒नः । शि॒प्री । अन्ध॑सः ॥ ८.३३.७

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:7 | अष्टक:6» अध्याय:3» वर्ग:8» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:7